बिल्वाष्टकम् Bilvashtakam in sanskrit

  बिल्वाष्टकम् 




त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् ।

त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥


त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।

तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ३॥


काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४॥


तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा ।

पञ्चबिल्वमिति ख्याता  एकबिल्वं शिवार्पणम् ॥ ५॥


तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् ।

कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ६॥


दन्त्यश्वकोटिदानानि अश्वमेधशतानि च ।

कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ७॥


सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् ।

यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥


अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् ।

तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥


एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् ।

महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ १०॥


अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।

मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥


             ॥ ॐ तत्सत् ॥

Comments