Aditya kavacham

 आदित्यकवचम् 



ॐ अस्य श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः ।

अनुष्टुप्-जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः ।

आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः ।

ध्यानं

उदयाचलमागत्य वेदरूपमनामयम् ।

तुष्टाव परया भक्त्या वालखिल्यादिभिर्वृतम् ॥ १॥


देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् ।

ध्यायन् स्तुवन् पठन् नाम यस्सूर्यकवचं सदा ॥ २॥


घृणिः पातु शिरोदेशं सूर्यः फालं च पातु मे ।

आदित्यो लोचने पातु श्रुती पातु प्रभाकरः ॥ ३॥


घ्राणं पातु सदा भानुः अर्कः पातु मुखं तथा ।

जिह्वां पातु जगन्नाथः कण्ठं पातु विभावसुः ॥ ४॥


स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।

अहस्करः पातु हस्तौ हृदयं पातु भानुमान् ॥ ५॥


मध्यं च पातु सप्ताश्वो नाभिं पातु नभोमणिः ।

द्वादशात्मा कटिं पातु सविता पातु सृक्किणी ॥ ६॥


ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः ।

जङ्घे पातु च मार्ताण्डो गलं पातु त्विषाम्पतिः ॥ ७॥


     पादौ ब्रध्नस्सदा पातु मित्रोऽपि सकलं वपुः ।

वेदत्रयात्मक स्वामिन् नारायण जगत्पते ।

     अयातयामं तं कञ्चिद्वेदरूपः प्रभाकरः ॥ ८॥


स्तोत्रेणानेन सन्तुष्टो वालखिल्यादिभिर्वृतः ।

साक्षाद्वेदमयो देवो रथारूढस्समागतः ॥ ९॥


तं दृष्ट्वा सहसोत्थाय दण्डवत्प्रणमन् भुवि ।

कृताञ्जलिपुटो भूत्वा सूर्यस्याग्रे स्थितस्तदा ॥ १०॥


वेदमूर्तिर्महाभागो ज्ञानदृष्टिर्विचार्य च ।

ब्रह्मणा स्थापितं पूर्वं यातयामविवर्जितम् ॥ ११॥


सत्त्वप्रधानं शुक्लाख्यं वेदरूपमनामयम् ।

शब्दब्रह्ममयं वेदं सत्कर्मब्रह्मवाचकम् ॥ १२॥


मुनिमध्यापयामास प्रथमं सविता स्वयम् ।

तेन प्रथमदत्तेन वेदेन परमेश्वरः ॥ १३॥


याज्ञवल्क्यो मुनिश्रेष्ठः कृतकृत्योऽभवत्तदा ।

ऋगादिसकलान् वेदान् ज्ञातवान् सूर्यसन्निधौ ॥ १४॥


     इदं प्रोक्तं महापुण्यं पवित्रं पापनाशनम् ।

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।

     वेदार्थज्ञानसम्पन्नस्सूर्यलोकमावप्नुयात् ॥ १५॥


इति स्कान्दपुराणे गौरीखण्डे आदित्यकवचं समाप्तम् ।

Comments